|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.133. अध्यायः 133
Mahabharata - Udyoga Parva - Chapter Topics
कुन्त्या युधिष्ठिरबोधनाय कृष्णंप्रति विदुलोपाख्यानकथनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text
कुन्त्युवाच। 5-133-0x(3779)(36340)
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
विदुलायाश्च संवादं पुत्रस्य च परन्तप ॥ 5-133-1(36341)
ततः श्रेयश्च भूयश्च यथावद्वक्तुमर्हसि ।
यशस्विनी मन्युमती कुले जाता विभावरी ॥ 5-133-2(36342)
क्षत्रधर्मरता दान्ता विदुला दीर्घदर्शिनी ।
विश्रुता राजसंसत्सु श्रुतवाक्या बहुश्रुता ॥ 5-133-3(36343)
विदुला नाम राजन्या जगर्हे पुत्रमौरसम् ।
निर्जितं सिन्धुराजेन शयानं दीनचेतसम् ॥ 5-133-4(36344)
विदुलोवाच। 5-133-5x(3780)
अनन्दन मया जात द्विषतां हर्षवर्धन ।
न मया त्वं न पित्रा च जातः क्वाभ्यागतोह्यसि ॥ 5-133-5(36345)
निर्मन्युश्चाप्यसङ्ख्येयः पुरुषः क्लीबसाधनः ।
यावज्जीवं निराशोऽसि कल्याणाय धुरं वह ॥ 5-133-6(36346)
माऽऽत्मानमवमन्यस्व मैनमल्पेन बीभरः ।
मनः कृत्वा सुकल्याणं मा भैस्त्वं प्रतिसंहर ॥ 5-133-7(36347)
उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः।
अमित्रान्नन्दयन्सर्वान्निर्मानो बन्धुशोकदः ॥ 5-133-8(36348)
सुपूरा वै कुनदिका सुपूरो मुषिकाञ्जलिः ।
सुसंतोषः कापुरुषः स्वल्पकेनैव तुष्यति ॥ 5-133-9(36349)
अप्यहेरारुजन्दंष्ट्रामाश्वेव निधनं व्रज ।
अपि वा संशयं प्राप्य जीवितेऽपि पराक्रमेः ॥ 5-133-10(36350)
अप्यरेः श्येनवच्छिद्रं पश्येस्त्वं विपरिक्रमन् ।
विवदन्वाऽथवा तूष्णीं व्योम्नीवापरिशङ्कितः ॥ 5-133-11(36351)
त्वमेवं प्रेतवच्छेषे कस्माद्वज्रहतो यथा।
उत्तिष्ठ हे कापुरुष मा स्वाप्सीः शत्रुनिर्जितः ॥ 5-133-12(36352)
माऽस्तं गमस्त्वं कृपणो वि श्रूयस्व स्वकर्मणा ।
मा मध्ये मा जघन्ये त्वं माऽधो भूस्तिष्ठ गर्जितः ॥ 5-133-13(36353)
अलातं तिन्दुकस्येव मुहूर्तमपि हि ज्वल ।
मा तुषाग्निरिवानर्चिर्धूमायस्व जिजीविषुः ॥ 5-133-14(36354)
मुहूर्तं ज्वलितं श्रेयो न च धूमायितं चिरम् ।
मा ह स्म कस्यचिद्गेहे जनी राज्ञः स्वरीमृदुः ॥ 5-133-15(36355)
कृत्वा मानुष्यकं कर्म सृत्वाऽऽजिं यावदुत्तमम् ।
धर्मस्यानृण्यमाप्नोति न चात्मानं विगर्हते ॥ 5-133-16(36356)
अलब्ध्वा यदि वा लब्ध्वा नानुशोचति पण्डितः ।
आनन्तर्यं चारभते न प्राणानां धनायते ॥ 5-133-17(36357)
उद्भावयस्वं वीर्यं वा तां वा गच्छ ध्रुवां गतिम् ।
धर्मं पुत्राग्रतः कृत्वा किंनिमित्तं हि जीवसि ॥ 5-133-18(36358)
इष्टापूर्तं हि ते क्लीब कीर्तिश्च सकला हता ।
विच्छिन्नं भोगमूलं ते किंनिमित्तं हि जीवसि ॥ 5-133-19(36359)
शत्रुर्निमञ्जता ग्राह्यो जङ्घायां प्रपतिष्यता।
विपरिच्छिन्नमूलोऽपि न विषीदेत्कथंचन ॥ 5-133-20(36360)
उद्यम्य धुरमुत्कर्षेदाजानेयकतं स्मरन्।
कुरु सत्वं च मानं च विद्धि पौरुषमात्मनः । 5-133-21(36361)
उद्भावय कुलं मग्नं त्वत्कृते स्वयमेव हि।
यस्य वृत्तं न जल्पन्ति मानवा महदद्भुतम् ॥ 5-133-22(36362)
राशिवर्धनमात्रं स नैव स्त्री न पुनः पुमान् ।
दाने तपसि सत्ये च यस्य नोच्चरितं यशः ॥ 5-133-23(36363)
विद्यायामर्थलाभे वा मातुरुच्चार एव सः।
श्रुतेन तपसा वाऽपि श्रिया वा विक्रमेण वा ॥ 5-133-24(36364)
जनान्योऽभिभवत्यन्यान्कर्मणा हि स वै पुमान् ।
न त्वेव जाल्मीं कापालीं वृत्तिमेषितुमर्हसि ॥ 5-133-25(36365)
नृशंस्यामयशस्यां च दुःखां कापुरुषोचिताम्।
यमेनमभिनन्देयुरमित्राः पुरुषं कृशम् ॥ 5-133-26(36366)
लोकस्य समवज्ञातं निहीनासनवाससम् ।
अहोलाभकरं हीनमल्पजीवनमल्पकम् ॥ 5-133-27(36367)
नेदृशं बन्धुमासाद्य बान्धवः सुखमेधते।
अवृत्त्यैव विपत्स्यामो वयं राष्ट्रात्प्रवासिताः ॥ 5-133-28(36368)
सर्वकामरसैर्हीनाः स्थानभ्रष्टा अकिंचनाः ।
अवल्गुकारिण सत्सु कुलवंशस्य नाशनम् ॥ 5-133-29(36369)
कलिं पुत्रप्रवादेन सञ्जय त्वामजीजनम् ।
निरमर्षं निरुत्साहं निर्वीर्यमरिनन्दनम् ॥ 5-133-30(36370)
मा स्म सीमन्तिनी काचिञ्जनयेत्पुत्रमीदृशम्।
मा धूमाय ज्वलात्यन्तमाक्रम्य जहि शात्रवान् ॥ 5-133-31(36371)
ज्वल मूर्धन्यमित्राणां मुहूर्तमपि वा क्षणम्।
एतावानेव पुरुषो यदमर्षी यदक्षमी ॥ 5-133-32(36372)
क्षमावान्निरमर्षश्च नैव स्त्री न पुनः पुमान् ।
संतोषो वै श्रियं हन्ति तथाऽनुक्रोश एव च ॥ 5-133-33(36373)
अनुत्थानभये चोभे निरीहो नाश्रुते महत्।
एभ्यो निकृतिपापेभ्यः प्रमुञ्चात्मानमात्मना ॥ 5-133-34(36374)
आयसं हृदयं कृत्वा मृगयस्व पुनः स्वकम् ।
परं विषहते यस्मात्तस्मात्पुरुष उच्यते ॥ 5-133-35(36375)
तमाहुर्व्यर्थनामानं स्त्रीवद्य इह जीवति।
शूरस्योर्जितसत्वस्य सिंहविक्रान्तचारिणः ॥ 5-133-36(36376)
दिष्टभावं गतस्यापि विषये मोदते प्रजा ।
य आत्मनः प्रियमुखे हित्वा मृगयते श्रियम् ॥ 5-133-37(36377)
अमात्यानामथो हर्षमादधात्यचिरेण सः ॥ 5-133-38(36378)
पुत्र उवाच। 5-133-39x(3781)
किं नु मे मामपश्यन्त्याः पृथिव्या अपि सर्वया।
किमाभरणकृत्यं ते किं भोगैर्जीवितेन वा । 5-133-39(36379)
मातोवाच। 5-133-40x(3782)
`पैरर्विहन्यमानस्य जीवितेनापि किं फलम्।'
निर्मन्युकानां ये लोका द्विषन्तस्तानवाप्नुयुः ।
ये त्वादृतात्मनां लोकाः सुहृदस्तान्व्रजन्तु नः ॥ 5-133-40(36380)
भृत्यैर्विहीयमानानां परपिण्डोपजीविनाम्।
कृपणानामसत्वानां मा वृत्तिमनुवर्तिथाः ॥ 5-133-41(36381)
अनु त्वां तात जीवन्तु ब्राह्मणाः सुहृदस्तथा ।
पर्यन्यमिव भूतानि देवा इव शतक्रतुम् ॥ 5-133-42(36382)
यमाजीवन्ति पुरुषं सर्वभूतानि संजय।
पक्वं द्रुममिवासाद्य तस्य जीवितमर्थवत्॥ 5-133-43(36383)
यस्य शूरस्य विक्रान्तैरेधन्ते बान्धवाः सुखम्।
त्रिदशा इव शक्रस्य साधु तस्येह जीवितम् ॥ 5-133-44(36384)
स्वबाहुबलमाश्रित्य योहि जीवति मानवः ।
स लोके लभते कीर्तिं परत्र च शुभां गतिम् ॥ ॥ 5-133-45(36385)
इति श्रीमन्माभारते उद्योगपर्वणि भगवद्यानपर्वणि त्रयस्त्रिंशदधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-133-2 मन्युमती दैन्यवती। विभावरी कुपिता। विभावरी रजन्यां च वक्रयोषितीति विश्वः ॥ 5-133-5 अनन्दन कुपुत्र । कुत्सार्थेऽत्र नञ् । 5-133-6 क्लीबे निर्वीर्यै साधनं बाह्वादिकं यस्य स तथा ॥ 5-133-7 मा वीभरः मा पालय । प्रतिसंहर भयमिति शेषः ॥ 5-133-10 पराक्रमेः पराक्रमं कुरु ॥ 5-133-11 विवदन् शत्रुजयार्थं अनेकान् पक्षानुद्भावयन्वा तूष्णींभूतोऽरेश्छिद्रं पश्येः। यथा व्योम्नि अपरिशङ्कितः शत्रोराधिक्याद्भयमपश्यन् श्येनस्तद्वत् ॥ 5-133-13 विश्रूयस्व ख्यातो भव। सामभेदौ जघन्यमध्यमौ । दानमधमो नीच उपायः। दण्डस्तूतमः। तत्राद्यत्रयकर्ता माभूः किंतु गर्जितो दण्डयितैव भवेत्यर्थः । ऊर्जित इति वा पाठः ॥ 5-133-15 कस्यचिद्राज्ञो गेहे स्वरी गर्दभीव मृदुः अकिञ्चिन्करः जायत इति जनिः पुत्रो माभूत् ॥ 5-133-16 आजिं संग्रामम् ॥ 5-133-17 प्राणानां प्राणाः बलं तत्साध्यानां कार्याणाम्। आनन्तर्यं अविच्छेदेन कार्यधारामारभते । न धनायते धनं आत्मनो नेच्छति। तृष्णं त्यजतीत्यर्थः ॥ 5-133-18 ध्रुवां गतिं मरणम्, अग्रत इत्युपहासः। पृष्ठतः कृत्वेत्यर्थः ॥ 5-133-20 निमज्जता प्रपतिष्यता च शत्रुर्जङ्घायां ग्राह्यः । तेनैव सह निमज्जेत्पतेद्वेत्यर्थः । न विषीदेत् निरुद्यमो न भवेत् ॥ 5-133-21 आजानेयाः जात्यश्वाः तेषां कृतं कर्म युद्धेऽनवसादरूपं ॥ 5-133-22 त्वत्कृते मग्नमिति संबन्धः । 5-133-23 राशिवर्धनः संख्यापूरको नतु प्रयोजनान्तरार्हः ॥ 5-133-24 मातुः उच्चारो विष्ठा ॥ 5-133-26 यं एन अमित्रा अभिनन्देषु तं बन्धुं बान्धवः आसाद्य न सुखमेधत इति तृतीयश्लोकेन संबन्धः ॥ 5-133-27 अहोलाभकरं अल्पेऽपि लाभे अहो लाभो जात इति विस्मयं कुर्वाणम् ॥ 5-133-37 दिष्टभावं मरणम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|